पूर्वम्: ६।३।८४
अनन्तरम्: ६।३।८६
 
सूत्रम्
चरणे ब्रह्मचारिणि॥ ६।३।८५
काशिका-वृत्तिः
चरणे ब्रह्मचारिणि ६।३।८६

चरणे गम्यमाने ब्रह्मचारिणि उत्तरपदे समानस्य स इत्ययम् आदेशो भवति। समानो ब्रह्मचारी सब्रहमचारी। ब्रह्म वेदः, तदध्ययनार्थं यद् व्रतं तदपि ब्रह्म, तच् चरति इति ब्रहमचारी। समानः तस्य एव ब्रह्मणेः समानत्वदित्ययम् अर्थो भवति। समाने ब्रह्मणि व्रतचरी सब्रह्मचरी इति।
न्यासः
चरणे ब्राहृचारिणि। , ६।३।८५

चरणशब्दोऽयमध्ययननिमित्तमुपादाय पुरुषादिषु वत्र्तते। ब्राहृआ चरतीति ब्राहमचारी, "व्रते" ३।२।८० इति णिनिः। "सब्राहृचारी" इति। पूर्ववत्? कर्मधारयः। सब्राहृचारीत्यस्यायमर्थोऽभिमतः--समाने ब्राहृणि व्रतं चरतीति। एष चात्रार्थो यथोपपद्यते, तथा दर्शयितुमाह--"ब्राहृ वेदः" इत्यादि। तदध्यनार्थ यद्व्रतं तदपि ब्राह्रेति। तादथ्र्यात्? ताच्छब्द्यम्(), यथा--इन्द्रार्था स्थूणा इन्द इति। तच्चरतीति तत्? सम्पादयति, परिपालयतीत्यर्थः। केन पुनरसौ समानः? इत्याह--"समानस्तस्यैव" इत्यादि। तस्यैवेति वेदाख्यस्य ब्राहृणः। इतिकरणो हेतौ। यत एव मुपचारेण लब्धब्राहृव्यपदेशं व्रतं यश्चरति ब्राहृणश्च समानत्वादयः समानः स सब्राहृचारी। तेन सबहृचारीत्यस्यायमर्थो भवति--समाने ब्राहृणि व्रतचारीति। यदि ह्रसमाने ब्राहृणि व्रतं चरेत्? तदा समानत्वं न स्यात्()। तथापि ब्राहृआख्यं व्रतं न चरेदेवमपि ब्राहृचारित्वं न स्यात्()। तस्माद्यः समाने ब्राहृणि ब्राहृचारी, सोऽवश्यं समाने ब्राहृणि व्रतचारीति भवति। सब्राहृचारीत्ययमस्यर्थः सम्पदयते--समाने ब्राहृणि व्रतचारीति। अथ वा--तस्यैवेत्युपचारेण लब्धब्राहृव्यपदेशस्य व्रतस्यात्र पक्षे परमर्शः। समाने ब्राहृणि इत्यत्र ब्राहृशब्दो वेदे वत्र्तते, प्रतिवेदं हि भिद्यते, तदध्ययनार्थं यद्व्रतं तत्र यः समाने वेदेऽध्येतव्ये व्रतं चरति स एव सब्राहृचारीत्युच्यते॥
बाल-मनोरमा
ज्योतिर्जनपदचरणे ब्राहृचारिणि ९९८, ६।३।८५

ज्योतिर्जनपद। अच्छन्दोऽर्थं वचनमिदम्। सज्योतिरिति। समानं ज्योतिर्यस्येति विग्रहः। एवं सजनपद इत्यादीति। सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः सवयाः, सवचनः, सबन्धुः।

बाल-मनोरमा
चरणे ब्राहृचारिणि ९९९, ६।३।८५

चरणे ब्राहृचारिणि। समानस्येति स इति चानुवर्तते। "उत्तरपदे" इत्यधिकृतम्। तदाह--ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति। "चरणे" इति सप्तमी समानस्येत्यत्राऽन्वेति। चरणे विद्यमानस्येत्यर्थः। फलितमाह--चरणे समानत्वेन गम्यमाने इति। तत्र चरणपदं व्याचष्टे--चरणः शाखेति। वैदिकप्रसिद्धिरेवात्र मूलम्। ब्राहृचारिपदं निर्वक्तुमाह--ब्राहृ वेद इति। "वेदस्तत्त्वं तपो ब्राहृए"त्यमरः। तच्चरणार्थमिति। तस्य=वेदस्य, चरणम्ध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः। गौण्या वृत्त्ये"ति शेषः। तच्चरतीति। तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः। "सुप्यजातौ" इति णिनिः। समानस्य स इति। "समानो ब्राहृचारी"ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति "सब्राहृचारी"ति रूपमित्यर्थः। समानत्वं च वेदद्वारा बोध्यम्। तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम्।

तत्त्व-बोधिनी
चरणे ब्राहृचारिणि ८४९, ६।३।८५

ब्राहृचारीति। "व्रते"इति णिनिः। सब्राहृचारीति। समानो ब्राहृचारीत्यर्थः। ब्राहृचारिणश्च समानत्वं--ब्राहृणः समानत्वात्। ततश्च "समाने ब्राहृणि व्रतचारी"ति फलितोऽर्थः।